Srimad Valmiki Ramayanam

Balakanda Sarga 60

Story of Trisanku - 3 !!

|| om tat sat ||

बालकांड
षष्टितमस्सर्गः

तपोबलहतान् कृत्वा वासिष्टान् स महोदयान् ।
ऋषिमध्ये महातेजा विश्वामित्रोsभ्यभाषत ॥

स॥ वासिष्ठान् महोदयान् सह तपोबल हतान् कृत्वा महातेजः विश्वामित्रः ऋषिमध्ये अभ्यभाषत ॥

Having decimated Mahodaya along with the (hundred) sons of Vasishta , the highly radiant Viswamitra spoke with the assembled Rishis.

अयं इक्ष्वाकु दायादः त्रिशंकुरिति विश्रुतः ।
धर्मिष्ठश्च वदान्यश्च मां चैव शरणागतः ॥

स॥ अयं इक्ष्वाकु दायादः धर्मिष्ठः वदान्यः च । त्रिशंकुः इति विश्रुतः । (सः) मां एव शरणागतः च॥

This one of the Ikshvaku lineage is a follower of Dharma and one who is charitable. He is known as Trisanku. He came asked for my protection.

तेनानेन शरीरेण देवलोक जिगीषया ।
यथायं स्व शरीरेण स्वर्गलोकम् गमिष्यसि॥
तथा प्रवर्त्यतां यज्ञो भविद्भिश्छ मया सह ॥

स॥ अनेन शरीरेण देवलोक जिगीषया तेन ( मां शरणागतः) । मया सह भवद्भिः यथा अयं स्वशरीरेनस्वर्गलोकं गमिष्यसि तथा यज्ञः प्रवर्त्यतां ॥

"With this body he wants to go the world of Devas. Along with me all of you will do all that which will enable him to go to heaven along with his body".

विश्वामित्रः वचश्रुत्वा सर्व एव महर्षयः ।
ऊचुस्समेत्य सहिता धर्मज्ञा धर्मसंहितम्॥
अयं कुशिक दायादो मुनिः परम कोपनः ॥
यदाह वचनं सम्यक् एतत्कार्यं न संशयः ।
अग्निकल्पो हि भगवान् शापं दास्यति रोषितः ॥

स॥ विश्वामित्रः वचः श्रुत्वा सर्व एव महर्षयः धर्मज्ञः समेत्य धर्मसंहितं ऊचुः । अयम् मुनिः कुशिक दायदः परम कोपिनः ॥ भगवान् अग्नि कल्पः । रोषितः शापं दास्यति न संशयः । एतत्कार्यं यदाह वचनं सम्यक् ॥।

Hearing those words of Viswamitra, all the venerable sages who follow the path of Dharma said as follows. " This sage of the lineage of Kusika is extremely ill tempered. He is like fire. If angered without a doubt he will give a curse. It is better to do this task as he says. "

तस्मात् प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम् ।
गच्चेत् इक्ष्वाकु दायादो विश्वामित्रस्य तेजसा ॥
तथा प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठतः ॥

स॥ तस्मात् यथा विश्वामित्रस्य तेजसा इक्ष्वाकु दायादः स शरीरं दिवं गच्छेत् तथा यज्ञः प्रवर्त्यताम् । समधितिष्ठतः सर्वे प्रवर्त्यताम्॥

" Hence let us get ready to perform the sacrifice so that this Ikshwaku king goes to the world of Devas along with his body with the power of Viswamitra "

एवमुक्त्वा महर्षयः चक्रुस्तास्ताः क्रियास्तदा ।
याजकश्च महातेजा विश्वामित्रोsभवत् क्रतौ ॥
ऋत्विजास्त्वानुपूर्वेण मंत्रवन्मंत्र कोविदाः ।
चक्रुः कर्माणि सर्वाणि यथाकल्पं यथाविथि ॥

स॥ महर्षयः एवं उक्त्वा ताः ताः क्रियाः तदा चक्रुः ।विश्वामित्रः च क्रतौ याजकः अभवत् ॥ ऋत्विजाः मंत्रकोविदाः मंत्रवन् सर्वाणि कर्माणि यथाकल्पं यथाविथिः अनुपूर्वेण चक्रुः ॥

The venerable sages having said this they took up the their assigned tasks. Viswamitra became the leader or Yajaka of the sacrifice. The Ritviks are experienced in all the rites. The performed all the rites as required and as prescribed.

ततः कालेन महता विश्वामित्रो महातपाः ॥
चकार आवाहनं तत्र भागार्थं सर्वदेवताः ।
नाभ्यागमं स्तदाहूता भागार्थंसर्वदेवताः ॥

स॥ ततः विश्वामित्रः महातपाः महता कालेन सर्वदेवताः भागार्थं आवाहनं चकार । सर्वदेवताः तदा भागार्थं आहुता न अभ्यागमं ॥

Then after a long time the great sage Viswamitra invited all the Devas to take their part of sacrificial offerings. But none of the Devas accepted the invitation.

ततः क्रोथ समाविष्ठो विश्वामित्रो महामुनिः ।
स्रुव मुद्यम्य सक्रोथः त्रिशंकुं इदमब्रवीत् ॥

स॥ ततःविश्वामित्रं महामुनिः स्रुव मुद्यम्य क्रोथ समाविष्ठो त्रिशंकुं सक्रोधं इदं अब्रवीत् ॥

Then the sage being very much angered raised his "Suvra" and spoke to Trisanku in his anger.

पश्यमे तपसो वीर्यं स्वार्जितस्य नरेश्वर ।
एष त्वां स शरीरेण नयामि स्वर्गमोजसा॥

स॥ हे नरेश्वरा । मे स्वार्जितस्य वीर्यं तपसं पश्य। त्वां एष औजसा शरीरेण स्वर्गं नयामि ।

"O King ! See the power of penance earned by me. With this power I will send you along with your body to the world of Devas"

दुष्प्रापं सशरीरेण दिवं गच्च नराधिप ।
स्वार्जितं किंचिदप्यस्ति मयाहि तपसः फलम् ॥
राजन् स्वतेजसा तस्य सशरीरो दिवं व्रज ॥

स॥ हे नराधिप ! दुष्प्रापं दिवं स शरीरेण गच्छ । राजन् ! मयाहि स्वार्जितं तपसः फलम् किंचिदपि अस्ति तस्य स्वतेजसा स शरीरो दिवं व्रज ।

"Oh King ! Go to the world of Devas which is difficult to attain. Oh Rajan ! If I have even a bit of power earned by my penance,with that power go to the the world of Devas with your body".

उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः ।
दिवं जगाम् काकुत्‍स्थ मुनीनां पश्यताम् तदा॥

स॥ मुनौ उक्तवाक्ये तदा काकुत्‍स्थ नरेश्वरः मुनीं पश्यतां दिवं जगाम ॥

As he spoke, the king moved to the world of Devas while all the sages were watching.

देवलोकगतं दृष्ट्वा त्रिशंकुं पाकशासनः ।
सह सर्वैस्सुरगणैः इदं वचनमब्रवीत् ॥

स॥ पाकशासनः सर्वैः सुरगणैः सह देवलोकगतं त्रिशंकुं दृष्ट्वा इदं अब्रवीत् ॥

Seeing Trisanku in their world Indra along with all Devas spoke as follows.

त्रिशंको गच्च भूयस्त्वं नासि स्वर्गकृतालयः ।
गुरुशापहतो मूढ पत भूमिमिवाक्चिराः ॥

स॥ हे त्रिशंको ! त्वं भूयः गच्छ । हे मूढ गुरुशापहतः स्वर्गकृतालयः न असि । भूमिं पत इवाक्चिराः ॥

"Oh Trisanku ! You may go back . Oh Foolish one ! Having been cursed by your master you are not fit to enter the heaven. You may fall back on earth with your head facing downwards".

एवमुक्तो महेंद्रेण त्रिशंकुरपतत् पुनः ।
विक्रोशमानः त्राहीति विश्वामित्रं तपोधनम् ॥

स॥ महेंद्रेण एवं उक्तः तपोधनम् विश्वामित्रं त्राही इति विक्रोशमानः त्रिशंकुः पुनः अपतत् ॥

'Having been thus told by the Lord of Devas , Trisanku cried out to Viswamitra to save him even as was tumbling down towards earth'.

तत् श्रुत्वा वचनः तस्य क्रोशमानस्य कौशिकः ।
रोषमाहारयत् तीव्रं तिष्ठतिष्ठेति चाब्रवीत् ॥

स॥ क्रोशमानस्य तस्य वचनं श्रुत्वा कौशिकः तीव्रं रोषम् अहारयत् तिष्ठ तिष्ठ इति च अब्रवीत् ।

Hearing those cries of help , Viswamitra very much angered ( with Devas) told him "stop" , "stop" .

ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः ।
सृजन् दक्षिणमार्गस्थान् सप्तर्षीन् अपरान् पुनः ॥

स॥ स तेजस्वी अपरः प्रजापतिरिव ऋषि मध्ये दक्षिण मार्गस्थान् अपरः सप्तर्षीन् पुनः सृजन् ॥

'That highly radiant one, acting much like another Prajapati created another constellation of seven Rishis in the southern skies'.

नक्षत्र मालाम् अपरां असृजत् क्रोथमूर्छितः ।
दक्षिणां दिशमास्थाय मुनिमथ्ये महयशाः॥

स॥ महायशाः क्रोथ मूर्छितः मुनिमध्ये दक्षिणां दिशं आस्थाय अपरं नक्षत्र मालाम् असृजत् ॥

'The very famous Rishi having lost himself in anger created a constellation of stars too in the southern skies'.

सृष्ठ्वा नक्षत्र वंशं च क्रोधेन कलुषीकृतः ।
अन्यमिंद्रं करिष्यामि लोको वास्यादनिंद्रकः ॥
दैवतान्यपि स क्रोथात् स्रष्ठुं समुपचक्रमे ॥

स॥ क्रोधेन कलुषीकृतः (सः मुनिः) नक्षत्र वंशं सृष्ट्वा अन्यमिंद्रं करिष्यामि वा अस्य लोकः अनिंद्रिकः (भवेत्) । क्रोधात दैवतान् अपि स्रष्टुं समुप चक्रमे ॥

'Having been thoroughly lost in anger, having created stars he said "I will create another Indra or make the world of Devas without Indra". In his anger he set himself ready to create Devas too'.

ततः परम संभ्रांताः सर्षि संघास्सुरासुराः।
विश्वामित्रं महात्मानं ऊचु स्सानुनयं वचः ॥

स॥ सुराः असुराः स ऋषि संघाः संभ्रांताः महात्मानं विश्वामित्रं स अनुनयं वाक्यं ऊचुः ॥

'Then very much alarmed, the Suras Asuras along with the legions of Rishis spoke to Viswamitra in entreating tones'.

अयं राजा महाभाग गुरुशाप परिक्षतः ।
सशरीरो दिवं यातुं नार्हत्येव तपोधन ॥

स॥ हे महाभागा! अयं राजा गुरुशाप परिक्षतः । हे तपोधन ! सशरीरो दिवं यातुं अ अर्हति एव ॥

"Oh Great One ! This King has earned the curse of his Master. Oh Tapodhana he is unfit to enter the world of Devas with his body"

तेषां तद्वचनं श्रुत्वा देवानां मुनिपुंगवः ।
अब्रवीत् सुमहद्वाक्यं कौशिक स्सर्व देवताः ॥

स॥ सर्वदेवताः तेषाम् तत् वचनं श्रुत्वा देवानाम् मुनिपुंगवः कौशिक सुमहत् वाक्यं अब्रवीत् ॥

'Hearing those words of all Devas , the venerable sage Viswamitra made one important point'.

सशरीरस्य भद्रं वः त्रिशंकोरस्य भूपतेः।
अरोहणं प्रतिज्ञाय नानृतं कर्तुमुत्सहे ॥

स॥ भद्रं वः । अस्य भूपतेः त्रिशंकोः स शरीरस्य ( स्वर्गं) आरोहणं प्रतिज्ञाय अनृतं कर्तुं न उत्सहे ॥

" May all be well with you. Having promised to send this King Trisanku to the world of Devas along with his body I cannot go back on that promise".

सर्गो अस्तु सशरीरस्य त्रिशंकोरस्य शाश्वतः ।
नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ ॥

स॥ स शरीरस्य त्रिशंकोः सर्गः अथ शाश्वतः अस्तु मामकानि सर्वाणि नक्षत्राणि धृवाणि च॥

"Let that heaven with Trisanku's body be permanent. So also the Stars created by me be permanent".

यावल्लोका धरिष्यंति तिष्टंत्वेतानि सर्वशः ।
मत्कृतानि सुरास्सर्वे तदनुज्ञातु मर्हथ ॥

स॥ यावत् लोकाः धरिष्यंति ( तावत्) मत्कृतानि एतानि सर्वशः तिष्ठंति । सर्वे सुराः तत् अनुज्ञातु मर्हति ॥

"As long as the worlds last so will be all these created by me. I hope all Devas agree to this".

एवमुक्तास्सुराः सर्वे प्रतूचुर्मुनिपुंगवम् ।
एवं भवतु भद्रं ते तिष्ठंत्येतानि सर्वशः ॥

स॥ सर्वे सुराः एवं उक्ता , (तं) मुनिपुंगवं प्रत्यूचुः । भद्रं ते एवं भवतु एतानि सर्वशः तिष्टंति ॥

'Having been told thus the Devas then told the best of sages ," May all be well with you. Let it be as you said. Your creations will be there."

गगने तान्यनेकानि वैश्वानरपथात् बहिः ।
नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिष्षु जाज्वलन् ॥

स॥ मुनिश्रेष्ठ गगने तान् अनेकानि नक्षत्राणि तेषु ज्योतिषु वैश्वानर पथात् बहिः जाज्वलन् ॥

'Oh Best of sages ! There are may stars in the skies . Among these the stars so created will be there too but outside the regular universe'.

अवाक्छिरास्त्रिशंकुश्च तिष्ठत्वमरसन्निभः ॥
अनुयास्यंति चैतानि ज्योतींषि नृप सत्तमम् ।
कृतार्थं कीर्तिमंतं च स्वर्गलोकगतं यथा ॥

स॥ त्रिशंकुश्च अमरसन्निभः अवाक्चिराः तिष्ठत्वं । एतानि ज्योतींषि कृतार्थं कीर्तिमंतम् नृपसत्तमं अनुयास्यंति यथा सर्वलोकगतं च॥

"The Trisanku will live forever but with his head downwards. All the stars created will follow him. Trisanku having attained his objectives will thus be renowned".

विश्वामित्रस्तु धर्मात्मा सर्वदैवैरभिष्टुतः ।
ऋषिभिश्च महातेजा भाढमित्याह देवताः ॥

स॥ सर्वदैवैः धर्मात्मा विश्वामित्रस्तु अभिष्टुतः । महातेजा ऋषिभिश्च देवताः बाढं इति आह ।

'Then all the Devas praised Viswamitra. The highly radiant Viswamitra too wished them well'.

ततो देवा महात्मानो मुनयश्च तपोधनाः ।
जग्मुर्यथागतं सर्वे यज्ञस्यांते नरोत्तम ॥

स॥ हे नरोत्तम ! ततः यज्ञस्य अंते महात्मानः देवाः तपोधनाः मुनयः च जग्मुः यथागतं॥

'Oh Rama ! Then at the conclusion of the sacrifice the Devas, Rishis and all the great ones went back to their abodes'.

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे षष्टितमस्सर्गः ॥

Thus ends the sixtieth chapter of Balakanda in Valmiki Ramayana.
|| Om tat sat ||